अधिकम् इति निपात्यते। अध्यारूढस्य उत्तरपदलोपः कन् च प्रत्ययः। अधिको द्रोणः खार्याम्। अधिका खारी द्रोणेन। कर्तरि कर्मणि च अध्यारूढशब्दः।
"अध्यारूढशब्दस्योत्तरपदलोपः" इति। उत्तरपदमारूढशब्दस्तस्य लोपो निपात्यते। कथं पुनरधिको द्रोणः खार्यामित्यस्य प्रथमान्तस्य द्रोणशब्दस्य प्रयोगः,
अधिका खारी द्रोणेनेति तृतीयान्तस्य च? इत्यत आह--"कत्र्तरि कर्मणि च" इत्यादि। "गत्यर्थकर्मकश्लिष"
३।४।७२ इत्यादिना सूत्रेण रुहेः कत्र्तरि कर्मणि च क्तो विहितः, तेन कत्र्तरि कत्र्तरि कर्मणि चाध्यरूढशब्दो वत्र्तते, ततश्च तस्यार्थे व्युत्पाद्यमानोऽधिकशब्दोऽपि तत्पर्यायो भवंस्तयोरेवार्थयोर्भवति।
तत्र यदा कत्र्तरि वत्र्तते तदा द्रोणशब्दात्? प्रथमा भवति, न तृतीया।
यदा कर्मणि वत्र्तते तदा कर्त्तुरनभिहितत्वादधिकशब्देन द्रोणशब्दात्? तृतीया भवति।
कर्मणस्त्वभिहितत्वात्? खारीशब्दात्? प्रथमैव भवति, न द्वितीया। "अधिका खारी द्रोणेन" इति।
ननु चाधिको द्रोणः खार्यामस्यामित्यत्र कर्मणोऽनभिहितत्वात्? खारीशब्दाद्()द्वितीया प्राप्नोति? नैष दोषः;
यदयम्? "यस्मादधिकम्? २।३।९ "तदस्मिन्नधिकम्()"
५।२।४५ इति च निर्देशं करोति तज्ज्ञापयति--अधिकशब्देन योगे पञ्चमीसप्तम्यावेव विभक्ती भवत इति॥
अधिकम्। अध्यारूढशब्दादिति। "गत्यार्थाकर्मके"त्यादिना रूहेः कर्तरि कर्मणि वा क्तो विहितः। आद्ये क्तप्रत्ययेन कर्मणोऽनभिहितत्वादध्यारूढशब्दयोगे द्वितीया। "अध्यारूढो द्रोणः खारी"मिति, "ग्रामं गत"इतिवत्। तथा अधिकशब्देनापि योगे द्वितीयायां प्राप्तायां "यस्मादधिकं", "तदस्मिन्नधिक"मिति च निर्देशद्वयाकत्पञ्चमीसप्तम्यौ भवतः। "अधिको द्रोणः खार्याः। "अधिको द्रोणः खार्या"मिति। द्वितीये तु क्तेन कर्मणोऽभिहितत्वात्प्रथमा। "अधिका खारी द्रोणेन"। कर्मणोऽभिहितत्वादेव पञ्चमीसप्तम्याविह न शङ्कनीये।